Dharmasastha or Harihara Sahasranama Stotram Lyrics in Hindi

Dharmasastha or Harihara
https://youtu.be/WeU4OyJxVQY
 
Dharmasastha or Harihara Sahasranama Stotram Lyrics in Hindi. At present, the temple plays the Sahasranama Stotram. Below in this article, we can provide the Dharmasastha or Harihara Sahasranama Stotram Lyrics in HindiSong Lord Ayyappa Slokam popular Hindu devotional songs.

Dharmashasta or Harihara Sahasranamastotram Lyrics in Hindi

॥ धर्मशास्तासहस्रनामस्तोत्रम् ॥

ॐ पूर्ण पुष्कलाम्बा समेत श्रीहरिहरपुत्रस्वामिने नमः ।
श्री धर्मशास्तासहस्रनामस्तोत्रम् ।
अस्य श्री हरिहरपुत्रसहस्रनामस्तोत्रमालामन्त्रस्य
अर्धनारीश्वर ऋषिः । अनुष्टुप्छन्दः ।
श्री हरिहरपुत्रो देवता ।
ह्रां बिजं ह्रीं शक्तिः ह्रूं कीलकम् ।
श्री हरिहरपुत्र प्रसादसिध्यर्थे जपे विनियोगः ॥

अथ करन्यासः ।
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमह् ।
ह्रूं मध्यमाभ्याण् नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रैं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ॥

अथाञ्गन्यासः ।
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हम् ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
भुर्भुवस्सुवरों इति दिग्बन्धः ॥

॥ ध्यानम् ॥

ध्यायेदुमापतिरमापति भाग्यपुत्रम् ।
वेत्रोज्वलत् करतलं भसिताभिरामम् ॥

विश्वैक विश्व वपुषं मृगया विनोदम् ।
वांछानुरुप फलदं वर भुतनाथम् ॥

आशयामकोमलविशालतनुं विचित्र-
वासो वसानं अरुणोत्पलदामहस्तम् ।
उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं
शास्तारं इष्टवरदं शरणं प्रपद्ये ॥

पञ्चोपचाराः ।
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं अग्रयात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ।

मूलमन्त्रः ओं घ्रूं नमः पराय गोप्त्रे नमः ॥

ॐ नमो भगवते भूतनाथाय ।

ॐ शिवपुत्रो महातेजाः शिवकार्यधुरन्धरः ।
शिवप्रद शिवज्ञानी शैवधर्मसुरक्षकः ॥ १ ॥

शंखधारि सुराध्यक्ष चन्द्रमौलिस्सुरोत्तमः ।
कामेश कामतेजस्वी कामादिफलसंयुतः ॥ २ ॥

कल्याण कोमलांगश्च कल्याणफलदायकः ।
करुणाब्धि कर्मदक्ष करुणारससागरः ॥ ३ ॥

जगत्प्रियो जगद्रक्षो जगदानन्ददायकः ।
जयादि शाक्ति संसेव्यो जनाह्लादो जिगीषुकः ॥ ४ ॥

जितेन्द्रियो जितक्रोधो जितसेवारिसंखः ।
जैमिन्यदृषिसंसेव्यो जरामरणनाशकः ॥ ५ ॥

जनार्दन सुतो ज्येष्ठो ज्येष्ठादिगणसेवितः ।
जन्महीनो जितामित्रो जनकेनाभिपूजितः ॥ ६ ॥

परमेष्ठी पशुपति पंकजासनपूजितः ।
पुरहन्ता पुरत्राता परमैश्वर्यदायकः ॥ ७ ॥

पवनादि सुरैः सेव्यः पंचब्रह्मपरायणः ।
पार्वती तनयो ब्रह्म परानन्द परात्परः ॥ ८ ॥

ब्रह्मिष्टो ज्ञाननिरतो गुणागुणनिरुपकः ।
गुणाध्यक्षो गुणनिधिः गोपालेनाभिपुजितः ॥ ९ ॥

गोरक्षको गोधनदो गजारुढो गजप्रियः ।
गजग्रिवो गजस्कन्दो गभस्तिर्गोपतिः प्रभुः ॥ १० ॥

ग्रामपालो गजाध्यक्षो दिग्गजेनाभिपूजितः ।
गणाध्यक्षो गणपतिर्गवां पतिरहर्पतिः ॥ ११ ॥

जटाधरो जलनिभो जैमिन्यादॄषिपूजितः ।
जलन्थर निहन्ता च शोणाक्षश्शोणवासकः ॥ १२ ॥

सुराथिपश्शोकहन्ता शोभाक्षस्सुर्य तैजसः ।
सुरार्चितस्सुरैर्वन्द्यः शोणांगः शाल्मलीपतिः ॥ १३ ॥

सुज्योतिश्शरवीरघ्नः शरत्च्चन्द्रनिभाननः ।
सनकादिमुनिध्येयः सर्वज्ञानप्रदो विभुः ॥ १४ ॥

हलायुधो हंसनिभो हाहाहूहू मुखस्तुतः ।
हरिहरप्रियो हंसो हर्यक्षासनतत्परः ॥ १५ ॥

पावनः पावकनिभो भक्तपापविनाशनः ।
भसितांगो भयत्राता भानुमान् भयनाशनः ॥ १६ ॥

त्रिपुण्ड्रकस्त्रिनयनः त्रिपुण्ड्रांगितमस्तकः ।
त्रिपुरख्नो देववरो देवारिकुलनाशकः ॥ १७ ॥

देवसेनथिपस्तेजस्तेजोराशिर्दशाननः ।
दारुणो दोषहन्ता च दोर्दण्डो दण्डनायकः ॥ १८ ॥

धनुष्पाणिर्धराध्यक्षो धनिको धर्मवत्सलः ।
धर्मज्ञो धर्मनिरतो धनुर्श्शास्त्रपरायणः ॥ १९ ॥

स्थूलकर्णः स्थूलतनुः स्थूलाक्षः स्थूलबाहुकः ।
तनूत्तमत्तनुत्राणस्तारकस्तेजसांपतिः ॥ २० ॥

योगीश्वरो योगनिधिर्योगिनो योगसंस्थितः ।
मन्दारवाटिकामत्तो मलयाचलवासभूः ॥ २१ ॥

मन्दारकुसुमप्रख्यो मन्दमारुतसेवितः ।
महाभाश्च महावक्षा मनोहरमदार्चितः ॥ २२ ॥

महोन्नतो महाकायो महानेत्रो महाहनुः ।
मरुत्पूज्यो मानधनो मोहनो मोक्षदायकः ॥ २३ ॥

मित्रो मेधा महौजस्वी महावर्षप्रदायकः ।
भाषको भाष्यशास्त्रज्ञो भानुमान् भानुतैजसः ॥ २४ ॥

भिषग् भवानिपुत्रश्च भवतारणकारणः ।
नीलांबरो नीलनिभो नीलग्रीवो निरंजनः ॥ २५ ॥

नेत्रत्रयो निषादज्ञो नानारत्नोपशोभितः ।
रत्नप्रभो रमापुत्रो रमया परितोषितः ॥ २६ ॥

राजसेव्यो राजधनः रणदोर्दण्डमण्डितः ।
रमणो रेणुकासेव्यो राजनीचरदारणः ॥ २७ ॥

ईशान इभराट्सेव्य इषणात्रयनाशनः ।
इडावासो हेमनिभो हैमप्राकारशोभितः ॥ २८ ॥

हयप्रियोहयग्रीवो हंसो हरिहरात्मजः ।
हाटकस्फटिकप्रख्यो हंसारूओढेन सेवितः ॥ २९ ॥

वनवासो वनाध्यक्षो वामदेवो वराननः ।
वैवस्वतपतिर्विष्णुः विअराट्रूपो विशांपतिः ॥ ३० ॥

वेणुनादो वरग्रिवो वराभयकरान्वितः ।
वर्चस्वी विपुलग्रीवो विपुलाक्षो विनोदवान् ॥ ३१ ॥

वैणवारण्य वासश्च वामदेवेनसेवितः ।
वेत्रहस्तो वेदविधिर्वंशदेवो वरान्ग़कः ॥ ३२ ॥

ह्रींग़ारो ह्रींमना हृष्टो हिरण्यः हेमसम्भवः ।
हूताशो हूतनिष्पन्नो हूँगारकृतिसुप्रभः ॥ ३३ ॥

हव्यवाहो हव्यकरश्चाट्टहासोऽपराहतः ।
अणुरूपो रूपकरश्चाजरोऽतनुरूपकः ॥ ३४ ॥

हंसमन्त्रश्चहूतभुक् हेमम्बरस्सुलक्षणः ।
नीपप्रियो नीलवासाः निधिपालो निरातपः ॥ ३५ ॥

क्रोडहस्तस्तपस्त्राता तपोरक्षस्तपाह्वयः ।
मूर्ताभिषिक्तो मानी च मन्त्ररूपोः म्रुडो मनुः ॥ ३६ ॥

मेधावी मेदसो मुष्णुः मकरो मकरालयः ।
मार्त्ताण्डो मंजुकेशश्च मासपालो महौषधिः ॥ ३७ ॥

श्रोत्रियश्शोभमानश्च सविता सर्वदेशिकः ।
चन्द्रहासश्श्मश्श्क्तः शशिभासश्शमाधिकः ॥ ३८ ॥

सुदन्तस्सुकपोलश्च षड्वर्णस्संपदोऽधिपः ।
गरलः कालकण्ढश्च गोनेता गोमुखप्रभुः ॥ ३९ ॥

कौशिकः कालदेवश्च क्रोशकः क्रौंचभेदकः ।
क्रियाकरः कृपालुश्च करवीरकरेरुहः ॥ ४० ॥

कन्दर्पदर्पहारी च कामदाता कपालकः ।
कैलासवासो वरदो विरोचनो विभावसुः ॥ ४१ ॥

बभ्रुवाहो बलाध्यक्षः फणामणिविभुषणः ।
सुन्दरस्सुमुखः स्वच्चः सफासच्च सफाकरः ॥ ४२ ॥

शरानिव्रुत्तश्शक्राप्तः शरणागतपालकः ।
तीष्णदंष्ट्रो दीर्घजिह्व पिंगलाक्षः पिशाचहा ॥ ४३ ॥

अभेद्यश्चाङ्गदार्ड्यश्चो भोजपालोऽध भूपतिः ।
ग्रुध्रनासोऽविषह्यश्च् दिग्देहो दैन्यदाहकः ॥ ४४ ॥

बाडवपूरितमुखो व्यापको विषमोचकः ।
वसन्तस्समरक्रुद्धः पुंगवः पङ्गजासनः ॥ ४५ ॥

विश्वदर्पो निस्चिताज्ञो नागाभरणभूषितः ।
भरतो भैरवाकारो भरणो वामनक्रियः ॥ ४६ ॥

सिम्हास्यस्सिंहरूपश्च सेनापतिस्सकारकः ।
सनतनस्सिद्धरूपी सिद्धधर्मपरायणः ॥ ४७ ॥

आदित्यरूप्श्चापद्घ्नश्चाम्रुताब्धिनिवासभूः ।
युवराजो योगिवर्य उषस्तेजा उडुप्रभः ॥ ४८ ॥

देवादिदेवो दैवज्ञस्ताम्रोष्टस्ताम्रलोचनः ।
पिंगलाक्ष पिच्छचूडः फणामणि विभूषितः ॥ ४९ ॥

भुजंगभूषणो भोगो भोगानन्दकरोऽव्ययः ।
पंचहस्तेन सम्पुज्यः पंचबाणेनसेवितः ॥ ५० ॥

भवश्शर्वो भानुमयः प्रजपत्यस्वरुपकः ।
स्वच्चन्दश्चन्दश्शस्त्रज्ञो दान्तो देव मनुप्रभुः ॥ ५१ ॥

दशभुक्च दशाध्यक्षो दानवानां विनाशनः ।
सहस्राक्षश्शरोत्पन्नः शतानन्दसमागमः ॥ ५२ ॥

गृध्रद्रिवासो गंभिरो गन्धग्राहोगणेश्वरः ।
गोमेधो गण्ढकावासो गोकुलैः परिवारितः ॥ ५३ ॥

परिवेषः पदज्ञानी प्रियन्ङुद्रुमवासकः ।
गुहावासो गुरुवरो वन्दनीयो वदान्यकः ॥ ५४ ॥

वृत्ताकारो वेणुपाणीर्वीणादण्डदरोहरः ।
हैमीड्यो होत्रुसुभगो हौत्रज्ञश्चौजसां पतिः ॥ ५५ ॥

पवमानः प्रजातन्तुप्रदो दण्डविनाशनः ।
निमीडयो निमिषार्धज्ञो निमिषाकारकारणः ॥ ५६ ॥

लिगुडाभो लिडाकारो लक्ष्मीवन्द्यो वरप्रभुः ।
इडाज्ञः पिंगलावासः सुषुम्नामध्यसंभवः ॥ ५७ ॥

भिक्षाटनो भीमवर्चा वरकीर्तिस्सभेश्वरः ।
वाचोऽतीतो वरनिधिः परिवेत्ताप्रमाणकः ॥ ५८ ॥

अप्रमेयोऽनिरुद्धश्चाप्यनन्दादित्यसुप्रभः ।
वेषप्रियो विषग्राहो वरदानकरोत्तमः ॥ ५९ ॥

विपिनः वेदसारश्च वेदान्तैः परितोषितः ।
वक्रागमो वर्चवचा बलदाता विमानवान् ॥ ६० ॥

वज्रकान्तो वम्शकरो वटुरक्षाविशारदः ।
वप्रक्रीडो विप्रपुज्या वेलाराशिश्चलालकः ॥ ६१ ॥

कोलाहलः क्रोडनेत्रः
क्रोडास्यश्च कपालभृत् ।
कुंजरेड्या मंजुवासाः
क्रियामानः क्रियाप्रदः ॥ ६२ ॥

क्रीडानाधः कीलहस्थः क्रोशमानो बलाधिकः ।
कनको होत्रुभागी च खवासः खचरः खगः ॥ ६३ ॥

गणको गुणनिर्दुष्टो गुणत्यागी कुशाधिपः ।
पाटलः पत्रधारी च पलाशः पुत्रवर्धनः ॥ ६४ ॥

पित्रुसच्चरितः प्रेष्टः पापभस्म पुनश्चुचिः ।
फालनेत्रः फुल्लकेशः फुल्लकल्हारभूषितः ॥ ६५ ॥

फणिसेव्यः पट्टभद्रः पटुर्वाग्मी वयोधिकः ।
चोरनाट्यश्चोरवेषस्चोरघ्नश्चौर्यवर्धनः ॥ ६६ ॥

चंचलाक्षश्चामरको मरीचिर्मदगामिकः ।
म्रुडाभो मेषवाहश्च मैथिल्यो मोचकोमनुः ॥ ६७ ॥

मनुरूपो मन्त्रदेवो मंत्रराशिर्महादृड्ः ।
स्थूपिज्ञो धनदाता च देववन्ध्यश्चतारणः ॥ ६८ ॥

यज्ञप्रियो यमाध्यक्ष इभक्रीड इभेक्षण ।
दधिप्रियो दुराधर्षो दारुपालो दनूजहाः ॥ ६९ ॥

दामोदरोदामधरो दक्षिणामूर्तिरूपकः ।
शचीपूज्यश्शंखकर्णश्चन्द्रचूडो मनुप्रियः ॥ ७० ॥

गुडरूपो गुडाकेशः कुलधर्मपरायणः ।
कालकण्ढो गाढगात्रो गोत्ररूपः कुलेश्वरः ॥ ७१ ॥

आनन्दभैरवाराध्यो हयमेधफलप्रदः ।
दध्यन्नासक्तहृदयो गुडान्नप्रीतमानसः ॥ ७२ ॥

खृतान्नासक्तहृदयो गौरांगोगर्व्वभंजकः ।
गणेशपूज्यो गगनः गणानां पतिरूर्जितः ॥ ७३ ॥

छद्महीनश्शशिरदः शत्रूणां पतिरङ्गिराः ।
चराचरमयश्शान्तः शरभेशश्शतातपः ॥ ७४ ॥

वीराराध्यो वक्रगमो वेदांगो वेदपारगः ।
पर्वतारोहणः पूषा परमेशः प्रजापतिः ॥ ७५ ॥

भावज्ञो भवरोगख्नो भवसागरतारणः ।
चिदग्निदेहश्चिद्रूपस्चिदानन्दश्चिदाकृतिः ॥ ७६ ॥

नाट्यप्रियो नरपतिर्नरनारायणार्चितः ।
निषादराजो नीहारो नेष्टा निष्ठूरभाषणः ॥ ७७ ॥

निम्नप्रियो नीलनेत्रो नीलाङगो नीलकेशकः ।
सिंहाक्षस्सर्वविघ्नेशस्सामवेदपरायणः ॥ ७८ ॥

सनकादिमुनिध्येयः शर्व्वरीशः षडाननः ।
सुरूपस्सुलभस्स्वर्गः शचीनाधेन पूजितः ॥ ७९ ॥

काकीनः कामदहनो दग्धपापो धराधिपः ।
दामग्रन्धी शतस्त्रीशस्तश्रीपालश्च तारकः ॥ ८० ॥

ताम्राक्षस्तीष्णदम्ष्ट्रश्च तिलभोज्यस्तिलोदरः ।
माण्डुकर्णो मृडाधीशो मेरुवर्णो महोदरः ॥ ८१ ॥

मार्ताण्डभैरवाराध्यो मणिरूपो मरुद्वहः ।
माषप्रियो मधुपानो म्रुणालो मोहिनीपति ॥ ८२ ॥

महाकामेशतनयो माधवो मदगर्व्वितः ।
मूलाधाराम्बुजावासो मूलविद्यास्वरूपकः ॥ ८३ ॥

स्वाधिष्टानमयः स्वस्थः स्वस्थिवाक्य स्रुवायुधः ।
मणिपूराब्जनिलयो महाभैरवपूजितः ॥ ८४ ॥

अनाहताब्जरसिको ह्रींगाररसपेशलः ।
भूमध्यवासो भूकान्तो भरद्वाजप्रपूजितः ॥ ८५ ॥

सहस्राराम्बुजावासः सविता सामवाचकः ।
मुकुन्दश्च गुणातीतो गुणपुज्यो गुणाश्रयः ॥ ८६ ॥

धन्यश्च धनभृद् दाहो धनदानकरांबुजः ।
महाशयो महातीतो मायाहीनो मदार्चितः ॥ ८७ ॥

माठरो मोक्षफलदः सद्वैरिकुलनाशनः ।
पिंगलः पिंछचूडश्च पिशिताश पवित्रकः ॥ ८८ ॥

पायसान्नप्रियः पर्व्वपक्षमासविभाजकः ।
वज्रभूषो वज्रकायो विरिंजो वरवक्षण ॥ ८९ ॥

विज्ञानकलिकाबृन्दो विश्वरूपप्रदर्शकः ।
डंभघ्नो दमखोषघ्नो दासपालस्तपौजसः ॥ ९० ॥

द्रोणकुम्भाभिषिक्तश्च द्रोहिनाशस्तपातुरः ।
महावीरेन्द्रवरदो महासंसारनाशनः ॥ ९१ ॥

लाकिनी हाकिनीलभ्धो
लवणाम्भोधितारणः ।
काकिलः कालपाशघ्नः
कर्मबन्धविमोचकः ॥ ९२ ॥

मोचको मोहनिर्भिन्नो भगाराध्यो ब्रुहत्तनुः ।
अक्षयोऽक्रूरवरदो वक्रागमविनाशनः ॥ ९३ ॥

डाकीनः सूर्यतेजस्वी सर्प्पभूषश्च सद्गुरुः ।
स्वतंत्रः सर्वतन्त्रेशो दक्षिणादिगधीश्वरः ॥ ९४ ॥

सच्चिदानन्दकलिकः प्रेमरूपः प्रियंगरः ।
मिध्याजगदधिष्टानो मुक्तिदो मुक्तिरूपकः ॥ ९५ ॥

मुमुक्षुः कर्मफलदो मार्गदक्षोऽधकर्मठः ।
महाबुद्धो महाशुद्धः शुकवर्णः शुकप्रियः ॥ ९६ ॥

सोमप्रियः स्वरप्रीतः पर्व्वाराधनतत्परः ।
अजपो जनहम्सश्च फलपाणि प्रपूजितः ॥ ९७ ॥

अर्चितो वर्धनो वाग्मी वीरवेषो विधुप्रियः ।
लास्यप्रियो लयकरो लाभालाभविवर्जितः ॥ ९८ ॥

पंचाननः पंचगुढः पंचयज्ञफलप्रदः ।
पाशहस्तः पावकेशः पर्ज्जन्यसमगर्जनः ॥ ९९ ॥

पपारिः परमोदारः प्रजेशः पंगनाशनः ।
नष्टकर्मा नष्टवैर इष्टसिद्धिप्रदायकः ॥ १०० ॥

नागाधीशो नष्टपाप इष्टनामविधायकः ।
पंचकृत्यपरः पाता पंचपंचातिशायिकः ॥ १०१ ॥

पद्माक्षोः पद्मवदनः पावकाभः प्रियङ्गरः ।
कार्त्तस्वराङ्गो गोउराङ्गो गौरीपुत्रो धनेश्वरः ॥ १०२ ॥

गणेशास्लिष्टदेहश्च शीतांशुः शुभदितिः ।
दक्षध्वंसो दक्षकरो वरः कात्यायनीसुतः ॥ १०३ ॥

सुमुखो मार्गणो गर्भो गर्व्वभङ्गः कुशासनः ।
कुलपालपतिश्रेष्ट पवमानः प्रजाधिपः ॥ १०४ ॥

दर्शप्रियो निर्व्विकारो दीर्खकायो दिवाकरः ।
भेरीनादप्रियो बृन्दो बृहत्सेनः सुपालकः ॥ १०५ ॥

सुब्रह्मा ब्रह्मरसिको रसज्ञो रजताद्रिभाः ।
तिमिरघ्नो मिहीराभो महानीलसमप्रभः ॥ १०६ ॥

श्रीचन्दनविलिप्ताङ्गः श्रीपुत्रःश्रीतरुप्रियः ।
लाक्षावर्णो लसत्कर्णो रजनीध्वंसि सन्निभः ॥ १०७ ॥

बिन्दुप्रियोंऽम्बिकापुत्रो बैन्दवो बलनायकः ।
आपन्नतारकस्तप्तस्तप्तकृच्चफलप्रदः ॥ १०८ ॥

मरुद्धृतो महाखर्व्वश्चीरवासाः शिखिप्रियः ।
आयुष्माननखो दूत आयुर्वेदपरायणः ॥ १०९ ॥

हंसः परमहंसश्चाप्यवधूताश्रमप्रियः ।
अश्ववेगोऽश्वह्रुदयो हय धैर्यः फलप्रदः ॥ ११० ॥

सुमुखो दुर्म्मुखो विघ्नो
निर्विघ्नो विघ्ननाशनः ।
आर्यो नाथोऽर्यमाभासः ।
फाल्गुनः फाललोचनः ॥ १११ ॥

अरातिघ्नो घनग्रीवो ग्रीष्मसूर्य समप्रभः ।
किरीटी कल्पशास्त्रज्ञः कल्पानलविधायकः ॥ ११२ ॥

ज्ञानविज्ञानफलदो विरिंजारि विनाशनः ।
वीरमार्त्ताण्डवरदो वीरबाहुश्च पूर्वजः ॥ ११३ ॥

वीरसिंहासनो विज्ञो वीरकार्योऽस्थदानवः ।
नरवीरसुहृद्भ्राता नागरत्नविभूषितः ॥ ११४ ॥

वाचस्पतिः पुरारातिः संवर्त्तः समरेश्वरः ।
उरुवाग्मीह्युमापुत्रः उडुलोकसुरक्षकः ॥ ११५ ॥

श‍ृंगाररससंपूर्णः सिन्दूरतिलकांगितः ।
कुंगुमांगितसर्वांगः कालकेयविनाशनः ॥ ११६ ॥

मत्तनागप्रियो नेता नागगन्धर्वपूजितः ।
सुस्वप्नबोधको बोधो गौरीदुस्वप्ननाशनः ॥ ११७ ॥

चिन्ताराशिपरिध्वंसी चिन्तामणिविभूषितः ।
चराचरजगत्सृष्टा चलत्कुण्डलकर्णयुक् ॥ ११८ ॥

मुकुरास्यो मूलनिधिर्निधिद्वयनिषेवितः ।
नीराजनप्रीतमनाः नीलनेत्रो नयप्रदः ॥ ११९ ॥

केदारेशः किरातश्च कालात्मा कल्पविग्रहः ।
कल्पान्दभैरवाराध्यः कङ्गपत्रशरायुधः ॥ १२० ॥

कलाकाष्ठस्वरूपश्च ॠतुवर्षादिमासवान् ।
दिनेशमण्डलावासो वासवादिप्रपूजितः ॥ १२१ ॥

बहूलास्तंबकर्मज्ञः पंचाशद्वर्णरूपकः ।
चिन्ताहीनश्चिदाक्रान्तः चारुपालोहलायुधः ॥ १२२ ॥

बन्दूककुसुमप्रख्यः परगर्व्वविभण्जनः ।
विद्वत्तमो विराधग्ख्नः सचित्रश्चित्रकर्मकः ॥ १२३ ॥

संगीतलोलुपमनाः स्निग्धगम्भीरगर्ज्जितः ।
तुङ्गवक्त्रःस्तवरसस्चाभ्राभो भूमरेक्षणः ॥ १२४ ॥

लीलाकमलहस्ताब्जो बालकुन्दविभूषितः ।
लोध्रप्रसवशुधाभः शिरीषकुसुमप्रियः ॥ १२५ ॥

त्रस्तत्राणकरस्तत्वं तत्ववाक्यार्थबोधकः ।
वर्षीयम्श्च विधिस्तुत्यो वेदान्त प्रतिपादकः ॥ १२६ ॥

मूलभूतो मूलतत्वं मूलकारणविग्रहः ।
आदिनाथोऽक्षयफलः पाणिजन्माऽपराजितः ॥ १२७ ॥

गानप्रियो गानलोलो महेशो विज्ञमानसः ।
गिरीजास्तन्यरसिको गिरिराजवरस्तुत ॥ १२८ ॥

पीयुषकुम्भहस्ताब्जः पाशत्यागी चिरन्तनः ।
सुलालालसवक्त्राब्जः सुरद्रुमफलेप्सितः ॥ १२९ ॥

रत्नहाटकभूषांगो रवणाभिप्रपूजितः ।
कनत्कालेयसुप्रीतः क्रौंजगर्व्वविनाशनः ॥ १३० ॥

अशेषजनसंमोह आयुर्विद्याफलप्रदः ।
अवबद्धदुकूलांगो हारालंकृतकन्धरः ॥ १३१ ॥

केतकीकुसुमप्रीतः कलभैः परिवारितः ।
केकाप्रियः कार्तिकेयः सारंगनिनदप्रियः ॥ १३२ ॥

चातकालापसंतुष्टश्चमरीमृगसेवितः ।
आम्रकूटाद्रिसंचारी चाम्नायफलदायकः ॥ १३३ ॥

धृताक्षसूत्रपाणिश्चाप्यक्षिरोगविनाशनः ।
मुकुन्दपूज्यो मोहांगो मुनिमानसतोषितः ॥ १३४ ॥

तैलाभिषिक्तसुशीरास्तर्ज्जनीमुद्रिकायुतः ।
तटातकामनः प्रीतस्तमोग़ुणविनाशनः ॥ १३५ ॥

अनामयोऽप्यनादर्शंचार्ज्जुनाभो हुतप्रियः ।
षाड्गुण्य परिसम्पुर्णस्सप्ताश्वादिगृहैस्तुतः ॥ १३६ ॥

वीतशोकःप्रसादज्ञः सप्तप्राणवरप्रदः ।
सप्तार्चिश्चत्रिनयनस्त्रिवेणिफलदायकः ॥ १३७ ॥

कृष्णवर्त्मा वेदमुखो दारुमण्डलमध्यगः ।
वीरनूपुरपादाब्जोवीरकंकुणपाणिमान् ॥ १३८ ॥

विश्वमूर्तिश्शुधमुखश्शुधभस्मानुलेपनः ।
शुंभध्वंसिन्या संपूज्यो रक्तबीजकुलान्दकः ॥ १३९ ॥

निषादादिस्वरप्रीतः नमस्कारफलप्रदः ।
भक्तारिपंचदातायी सज्जीकृतशरायुधः ॥ १४० ॥

अभयङ्करमंत्रज्ञः कुब्जिकामंत्रविग्रहः ।
धूम्राशश्चोग्रतेजस्वी दशकण्ठविनाशनः ॥ १४१ ॥

आशुगायुधहस्ताब्जो गदायुधकरांबुजः ।
पाशायुधसुपाणिश्च कपालायुधसद्भुजः ॥ १४२ ॥

सहस्रशीर्षवदनः सहस्रद्वयलोचनः ।
नानाहेतिर्धनुष्प्पाणिः नानासृग्भूषणप्रियः ॥ १४३ ॥

आश्यामकोमलतनूरारक्तापांगलोचनः ।
द्वादशाहक्रतुप्रीतः पौण्डरीकफलप्रदः ॥ १४४ ॥

अप्तोराम्यक्रतुमयश्चयनादिफलप्रदः ।
पशुबन्धस्यफलदो वाजपेयात्मदैवतः ॥ १४५ ॥

आब्रह्मकीटजननावनात्मा चंबकप्रियः ।
पशुपाशविभागज्ञः परिज्ञानप्रदायकः ॥ १४६ ॥

कल्पेश्वरः कल्पवर्यो जातवेदः प्रभाकरः ।
कुम्भीश्वरः कुम्भपाणीः कुंकुमाक्तललाटकः ॥ १४७ ॥

शिलीध्रपत्रसंकाशः सिंहवक्त्रप्रमर्दनः ।
कोकिलक्वणनाकर्णी कालनाशन तत्परः ॥ १४८ ॥

नैय्यायिकमतख्नश्च बौद्धसंखविनाशनः ।
धृतहेमाब्जपाणिश्च होमसन्तुष्टमानसः ॥ १४९ ॥

पित्रुयज्ञस्यफलदः पित्रुवज्जनरक्षकः ।
पदातिकर्मनिरतः पृषदाज्यप्रदायकः ॥ १५० ॥

महासुरवधोद्युक्तः स्वस्त्रप्रत्यस्त्रवर्षकः ।
महावर्षतिरोधानः नागाभृतकराम्बुजः ॥ १५१ ॥

नमः स्वाहावषट् वौषट् वल्लवप्रतिपादकः ।
महीरसदॄशग्रीवो महीरसदॄशस्तवः ॥ १५२ ॥

तन्त्रीवादनहस्ताग्रः संगीतप्रीतमानसः ।
चिदंशमुकुरावासो मणिकूटाद्रि संचरः ॥ १५३ ॥

लीलासंचारतनुको लिङ्गशास्त्रप्रवर्तकः ।
राकेन्दुद्युतिसंपन्नो यागकर्मफलप्रदः ॥ १५४ ॥

मैनाकगिरिसंचारी मधुवंशविनाशनः ।
तालखण्डपुरावासः तमालनिभतैजसः ॥ १५५ ॥

श्री धर्मशास्ता सहस्रनामस्तोत्रं सम्पूर्णम् ।

Triveni

Triveni

Leave a Reply

Your email address will not be published. Required fields are marked *