Sri Hariharaputra Ashtottara Shatanama Stotram Lyrics in Hindi

Sri Hariharaputra Ashtottara

https://youtu.be/yhyI5DhAty0

Sri Hariharaputra Ashtottara Shatanama Stotram Lyrics in Hindi. At present, the temple plays Stotram Below in this article, we can provide the Sri Hariharaputra Ashtottara Song Lord Ayyappa Slokam popular Hindu devotional songs.

Shri Hariharaputra Ashtottara Lyrics in Hindi

॥ श्रीहरिहरपुत्राष्टोत्तरशतनामस्तोत्रम् ॥

अस्य श्री हरिहरपुत्राष्टोत्तरशतनामस्तोत्रस्य ।
ब्रह्मा ऋषिः । अनुष्टुप् छन्दः ।
श्री हरिहरपुत्रो देवता । ह्रीं बीजं ।
श्रीं शक्तिः । क्लीं कीलकं ।
श्री हरिहरपुत्र प्रीत्यर्थे जपे विनियोगः ॥

ह्रीं इत्यादिभिः षडङ्गन्यासः ॥

ध्यानम् ॥

त्रिगुणितमणिपद्मं वज्रमाणिक्यदण्डं
सितसुमशरपाशमिक्षुकोदण्डकाण्डं
घृतमधुपात्रं बिभृतं हस्तपद्मैः
हरिहरसुतमीडे चक्रमन्त्रात्ममूर्तिं ॥

ॐ ॥

महाशास्ता विश्वशास्ता लोकशास्तथैव च ।
धर्मशास्ता वेदशास्ता कालशस्ता गजाधिपः ॥ १ ॥

गजारूढो गणाध्यक्षो व्याघ्रारूढो महद्युतिः ।
गोप्तागीर्वाण संसेव्यो गतातङ्को गणागृणीः ॥ २ ॥

ऋग्वेदरूपो नक्षत्रं चन्द्ररूपो बलाहकः ।
दूर्वाश्यामो महारूपः क्रूरदृष्टिरनामयः ॥ ३ ॥

त्रिनेत्र उत्पलकरः कालहन्ता नराधिपः ।
खण्डेन्दु मौळितनयः कल्हारकुसुमप्रियः ॥ ४ ॥

मदनो माधवसुतो मन्दारकुसुमर्चितः ।
महाबलो महोत्साहो महापापविनाशनः ॥ ५ ॥

महाशूरो महाधीरो महासर्प विभूषणः ।
असिहस्तः शरधरो फालाहलधरात्मजः ॥ ६ ॥

अर्जुनेशोऽग्नि नयनश्चानङ्गमदनातुरः ।
दुष्टग्रहाधिपः श्रीदः शिष्टरक्षणदीक्षितः ॥ ७ ॥

कस्तूरीतिलको राजशेखरो राजसत्तमः ।
राजराजार्चितो विष्णुपुत्रो वनजनाधिपः ॥ ८ ॥

वर्चस्करोवररुचिर्वरदो वायुवाहनः ।
वज्रकायः खड्गपाणिर्वज्रहस्तो बलोद्धतः ॥ ९ ॥

त्रिलोकज्ञश्चातिबलः पुष्कलो वृत्तपावनः ।
पूर्णाधवः पुष्कलेशः पाशहस्तो भयापहः ॥ १० ॥

फट्काररूपः पापघ्नः पाषण्डरुधिराशनः ।
पञ्चपाण्डवसन्त्राता परपञ्चाक्षराश्रितः ॥ ११ ॥

पञ्चवक्त्रसुतः पूज्यः पण्डितः परमेश्वरः ।
भवतापप्रशमनो भक्ताभीष्ट प्रदायकः ॥ १२ ॥

कविः कवीनामधिपः कृपाळुः क्लेशनाशनः ।
समोऽरूपश्च सेनानिर्भक्त सम्पत्प्रदायकः ॥ १३ ॥

व्याघ्रचर्मधरः शूली कपाली वेणुवादनः ।
कम्बुकण्ठः कलरवः किरीटादिविभूषणः ॥ १४ ॥

धूर्जटीर्वीरनिलयो वीरो वीरेन्दुवन्दितः ।
विश्वरूपो वृषपतिर्विविधार्थ फलप्रदः ॥ १५ ॥

दीर्घनासो महाबाहुश्चतुर्बाहुर्जटाधरः ।
सनकादिमुनिश्रेष्ठ स्तुत्यो हरिहरात्मजः ॥ १६ ॥

इति श्री हरिहरपुत्राष्टोत्तरशतनामस्तोत्रं सम्पूर्णं ॥

Also, Read: Maa Durga Woh Hai Jag Se Bemisal Sakhi Bhajan Song Video

Triveni

Triveni

Leave a Reply

Your email address will not be published. Required fields are marked *